मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् २

संहिता

नि॒मिष॑श्चि॒ज्जवी॑यसा॒ रथे॒ना या॑तमश्विना ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

नि॒ऽमिषः॑ । चि॒त् । जवी॑यसा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

निमिषश्चित् निमेषादपि जवीयसा अतिशयवेगेन रथेनायातमागच्छतम् अस्मद्यज्ञं हेअश्विना । शिष्टमुक्तम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८