मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् ९

संहिता

प्र स॒प्तव॑ध्रिरा॒शसा॒ धारा॑म॒ग्नेर॑शायत ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

प्र । स॒प्तऽव॑ध्रिः । आ॒ऽशसा॑ । धारा॑म् । अ॒ग्नेः । अ॒शा॒य॒त॒ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

सप्तवध्रिर्महर्षिः हे अश्विनौ युवयोराशसा आशंसनेन स्तुत्या मंजूषाया निर्गत्य अग्नेर्धारां तस्यां मञ्चूषाया प्राशायत आशाययत् स्वस्वनिरोधिकां तां दग्धवानित्यर्थः । सप्तवध्रेः पेटिकान्तः प्रवेशोश्विनोरनुग्रहान्निर्गमश्च विजिहीष्ववनस्पत इत्यत्र स्पष्टमुक्तः ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९