मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् १०

संहिता

इ॒हा ग॑तं वृषण्वसू शृणु॒तं म॑ इ॒मं हव॑म् ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

इ॒ह । आ । ग॒त॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । शृ॒णु॒तम् । मे॒ । इ॒मम् । हव॑म् ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

हे वृषण्वसू वर्षणधनौ अश्विनाविहास्मिन्यज्ञमागतमागच्छतं तदर्थं म इमं हवं शृणुतम् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९