मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् ११

संहिता

किमि॒दं वां॑ पुराण॒वज्जर॑तोरिव शस्यते ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

किम् । इ॒दम् । वा॒म् । पु॒रा॒ण॒ऽवत् । जर॑तोःऽइव । श॒स्य॒ते॒ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

हे अश्विनौ वां युवयोरर्थं गमनाय पुराणवत् पुराणवत् पुराणयोरतिवृद्धयोरिव । तदेवाह जरतोरिव शस्यते पुनःपुनरागच्छतमिति शस्यते किमिदं यथा लोके वृद्धोजीर्णो बहुवारमाहूतोपि नागच्छति तद्वद्युवामपीत्यर्थः एवमनागमाद्ब्रवीति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०