मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् १२

संहिता

स॒मा॒नं वां॑ सजा॒त्यं॑ समा॒नो बन्धु॑रश्विना ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

स॒मा॒नम् । वा॒म् । स॒ऽजा॒त्य॑म् । स॒मा॒नः । बन्धुः॑ । अ॒श्वि॒ना॒ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ वां युवयोः परस्परं सजात्यं समानजातित्वं समानमेकमेव उभयोरपि अश्वरूपायासूर्यपत्न्याउत्पत्तेः सजात्यं तथा युवयोः बन्धुर्बन्धकः स्रुवः समानएकएव । अथवर्षिरहं समान एकएव बन्धुः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०