मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् १४

संहिता

आ नो॒ गव्ये॑भि॒रश्व्यै॑ः स॒हस्रै॒रुप॑ गच्छतम् ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

आ । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । स॒हस्रैः॑ । उप॑ । ग॒च्छ॒त॒म् ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

हे अश्विनौ नोस्मान् सहस्रैरपरिमितैर्गंव्येभिर्गोसमूहैः अश्व्यैरश्वसमूहैश्चोपागच्छतम् ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०