मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् १५

संहिता

मा नो॒ गव्ये॑भि॒रश्व्यै॑ः स॒हस्रे॑भि॒रति॑ ख्यतम् ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

मा । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । स॒हस्रे॑भिः । अति॑ । ख्य॒त॒म् ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

हे अश्विनौ नोस्मान् गव्येभिर्गोसमूहैरश्व्यैश्च सहस्रेभिः सहस्रसंख्याकैर्मास्मानतिख्यतम् । अतीति प्रतीत्यस्मिन्नर्थे । मानिवारयतमित्यर्थः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०