मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७४, ऋक् १

संहिता

वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यन्त॑ः पुरुप्रि॒यम् ।
अ॒ग्निं वो॒ दुर्यं॒ वचः॑ स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥

पदपाठः

वि॒शःऽवि॑शः । वः॒ । अति॑थिम् । वा॒ज॒ऽयन्तः॑ । पु॒रु॒ऽप्रि॒यम् ।
अ॒ग्निम् । वः॒ । दुर्य॑म् । वचः॑ । स्तु॒षे । शू॒षस्य॑ । मन्म॑ऽभिः ॥

सायणभाष्यम्

हे अन्ये ऋत्विजो यजमानाश्च वो यूयं वाजयन्तोन्नमिच्छन्तो विशोविशः सर्वस्याः प्रजायाः अतिथिं पूज्यं पुरुप्रियं बहुप्रियमग्निं स्तुत्या परि- चरतेतिशेषः । अहंच वोयुष्मदर्थं दुर्यं गुहाहितं वचः स्तुषे शूषस्य सुखस्य लाभाय । कैः साधनैः मनमभिर्मननीयैः स्तोत्रैः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१