मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७४, ऋक् २

संहिता

यं जना॑सो ह॒विष्म॑न्तो मि॒त्रं न स॒र्पिरा॑सुतिम् ।
प्र॒शंस॑न्ति॒ प्रश॑स्तिभिः ॥

पदपाठः

यम् । जना॑सः । ह॒विष्म॑न्तः । मि॒त्रम् । न । स॒र्पिःऽआ॑सुतिम् ।
प्र॒ऽशंस॑न्ति । प्रश॑स्तिऽभिः ॥

सायणभाष्यम्

यमग्निं जनासो जनायजमाना हविष्मन्तः सन्तो मित्रंन मित्रमिव आदित्यमिव सखायमिव वा सर्पिरांसुतिं सर्पिरासूयते हूयते यस्मिन् तादृशं प्रशंसन्ति स्तुवन्ति । प्रशस्तिभिः स्तुतिभिः स्तुवइतिशेषः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१