मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७४, ऋक् ३

संहिता

पन्यां॑सं जा॒तवे॑दसं॒ यो दे॒वता॒त्युद्य॑ता ।
ह॒व्यान्यैर॑यद्दि॒वि ॥

पदपाठः

पन्यां॑सम् । जा॒तऽवे॑दसम् । यः । दे॒वऽता॑ति । उत्ऽय॑ता ।
ह॒व्यानि॑ । ऐर॑यत् । दि॒वि ॥

सायणभाष्यम्

पन्यांसं अतिशयेनस्तोतारं साधुकृतमिति यजमानं स्तुवन्तं जातवेदसं जातधनं जातविद्यं वा स्तुवइतिशेषः । योग्निर्देवताति देवतातौ यज्ञे उद्यता उद्यतानि हव्यानि हवींषि दिव्यैरयत् प्रेरयति दिवि देवेभ्यः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१