मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७४, ऋक् ६

संहिता

स॒बाधो॒ यं जना॑ इ॒मे॒३॒॑ऽग्निं ह॒व्येभि॒रीळ॑ते ।
जुह्वा॑नासो य॒तस्रु॑चः ॥

पदपाठः

स॒ऽबाधः॑ । यम् । जनाः॑ । इ॒मे । अ॒ग्निम् । ह॒व्येभिः॑ । ईळ॑ते ।
जुह्वा॑नासः । य॒तऽस्रु॑चः ॥

सायणभाष्यम्

इमे जनाः सबाधो बाधसहिता अध्वर्य्वादयो यमग्निं हव्येभिर्हविर्भिरीळते स्तुवन्ति । कीदृशाजना जुह्वानासो यागं कुर्वाणां यतस्रुचः तदर्थं धृतस्रुग्दंडाः तमागन्मेति समन्वयः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२