मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७४, ऋक् ८

संहिता

सा ते॑ अग्ने॒ शंत॑मा॒ चनि॑ष्ठा भवतु प्रि॒या ।
तया॑ वर्धस्व॒ सुष्टु॑तः ॥

पदपाठः

सा । ते॒ । अ॒ग्ने॒ । शम्ऽत॑मा । चनि॑ष्ठा । भ॒व॒तु॒ । प्रि॒या ।
तया॑ । व॒र्ध॒स्व॒ । सुऽस्तु॑तः ॥

सायणभाष्यम्

हे अग्ने सास्माभिः क्रियमाणास्तुतिः शन्तमा अत्यन्तं सुखकरा चनिष्ठा अतिशयेनान्नवती ते तव प्रिया भवतु । तया स्तुत्या सुष्टुतः सुष्ठु स्तुतः सन्वर्धस्व प्रवृद्धोभव ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२