मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७४, ऋक् १२

संहिता

यं त्वा॒ जना॑स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये ।
स बो॑धि वृत्र॒तूर्ये॑ ॥

पदपाठः

यम् । त्वा॒ । जना॑सः । ईळ॑ते । स॒ऽबाधः॑ । वाज॑ऽसातये ।
सः । बो॒धि॒ । वृ॒त्र॒ऽतूर्ये॑ ॥

सायणभाष्यम्

हे अग्ने यं त्वा त्वां जनासो जनाः स्तोतारो वः वाजसातये अन्नस्यलाभाय सबाधः निर्बन्धरूपबाधोपेताः सन्त ईळते स्तुवन्ति सत्वं वृत्रतूर्ये वैरिनाशानाय पापक्षयायवा बोधि बुध्यस्व । अथवा वृत्रस्य तूर्ये संग्रामे बोधि ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३