मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७४, ऋक् १४

संहिता

मां च॒त्वार॑ आ॒शव॒ः शवि॑ष्ठस्य द्रवि॒त्नवः॑ ।
सु॒रथा॑सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्य॑म् ॥

पदपाठः

माम् । च॒त्वारः॑ । आ॒शवः॑ । शवि॑ष्ठस्य । द्र॒वि॒त्नवः॑ ।
सु॒ऽरथा॑सः । अ॒भि । प्रयः॑ । वक्ष॑न् । वयः॑ । न । तुग्र्य॑म् ॥

सायणभाष्यम्

मां शविष्ठस्यातिशयेनान्नवतः श्रुतर्वणोराज्ञः संबन्धिनश्चत्वार आशवोश्वा द्रवित्नवो गमनशीलाः सुरथासः शोभनरथा अश्वाः प्रयोन्नं शत्रूणां संबन्धिनं प्रति अभिवक्षत् अभिवहन्ति वयोन तुग्र्यं भुज्युं यथाश्विभ्यां प्रेरिताश्चतस्रो नावः स्वगृहं प्रापयन् तद्वदिति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३