मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७४, ऋक् १५

संहिता

स॒त्यमित्त्वा॑ महेनदि॒ परु॒ष्ण्यव॑ देदिशम् ।
नेमा॑पो अश्व॒दात॑र॒ः शवि॑ष्ठादस्ति॒ मर्त्य॑ः ॥

पदपाठः

स॒त्यम् । इत् । त्वा॒ । म॒हे॒ऽन॒दि॒ । परु॑ष्णि । अव॑ । दे॒दि॒श॒म् ।
न । ई॒म् । आ॒पः॒ । अ॒श्व॒ऽदात॑रः । शवि॑ष्ठात् । अ॒स्ति॒ । मर्त्यः॑ ॥

सायणभाष्यम्

हे महेनदि परुष्णि एतन्नामिके त्वा सत्यमित् सत्यमेव अवदेदिशं आदिशामि वदामि । नद्याकारेण संबोध्यापः संबोधयति-हे आपः ईमस्माच्छ- विष्ठाद्बलवत्तमाच्छ्रुतर्वणोधिकः कश्चिदश्वदातरः अश्वानांदातृतमो मर्त्योनास्ति परुष्ण्यास्तीरे राज्ञोश्वमेधप्रतिग्रहात्तां संबोध्य ब्रूते ॥ १५ ॥

युक्ष्वाहीति षोडशर्चं पचमं सूक्तं आंगिरसस्य विरूपस्यार्षं गायत्रमाग्नेयं तथाचानुक्रमणिका-युक्ष्वाहि षोडश विरूपइति । दशरात्रे तृतीये- हनीदंसूक्तं आज्यशस्त्रं सूत्रितंच-तृतीये युक्ष्वाहीत्याज्यमिति । प्रातरनुवाकेप्याग्नेयेक्रतौ गायत्रेछन्दसि आश्विनशस्त्रेचेदंसूक्तम् । सूत्रितंच-युक्ष्वा- हिप्रेष्ठंवइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३