मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् १

संहिता

यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व ।
नि होता॑ पू॒र्व्यः स॑दः ॥

पदपाठः

यु॒क्ष्व । हि । दे॒व॒ऽहूत॑मान् । अश्वा॑न् । अ॒ग्ने॒ । र॒थीःऽइ॑व ।
नि । होता॑ । पू॒र्व्यः । स॒दः॒ ॥

सायणभाष्यम्

हे अग्ने देवहूतमान् देवानामाह्वातृतमानश्वान् युश्व योजय । रथे रथीरिव यथा रथी स्वाश्वानिष्टदेशगमनाय योजयति तद्वत् । तथा कृत्वा होता त्वं पूर्व्यो मुख्यः सन् निषदः उपविशच । हिपूरणः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४