मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् २

संहिता

उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः ।
श्रद्विश्वा॒ वार्या॑ कृधि ॥

पदपाठः

उ॒त । नः॒ । दे॒व॒ । दे॒वान् । अच्छ॑ । वो॒चः॒ । वि॒दुःऽत॑रः ।
श्रत् । विश्वा॑ । वार्या॑ । कृ॒धि॒ ॥

सायणभाष्यम्

हे देवाग्ने उतापिच नोस्मान् देवानच्छावोचोभिब्रूयाः सम्यगनुष्ठितवन्तइति । तथा विदुष्टरो विद्वत्तमान्वोचः । तथा कृत्वा विश्वा सर्वाणि वार्या वरणीयानि धनानि देवसम्बन्धीनि श्रत् सत्यानि कृधि कुरु अस्माकम् । अथवास्मदीयानि सर्वाणि वरणीयानि हवींषि श्रत् सत्यानि कुरु देवान् प्रापयेत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४