मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् ३

संहिता

त्वं ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत ।
ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ॥

पदपाठः

त्वम् । ह॒ । यत् । य॒वि॒ष्ठ्य॒ । सह॑सः । सू॒नो॒ इति॑ । आ॒ऽहु॒त॒ ।
ऋ॒तऽवा॑ । य॒ज्ञियः॑ । भुवः॑ ॥

सायणभाष्यम्

हे अग्ने यविष्ठ्य युवतम सहसः सूनो बलस्यपुत्र आहुत सर्वतोहुत आहुतोवात्वँ यद्यदा ह खलु ऋतावा सत्यवान् यज्ञियो यज्ञार्हश्च भुवो भवसि सदा वार्याणि श्रत्कुर्विति संबंधः ॥ ३ ॥ दर्शपूर्णमासयोराग्नेयस्यायमग्निरिति वैकल्पिकीयाज्या । सूत्रितंच-अयमग्निः सहस्रिणइति वेदंविष्णुर्विचक्रमइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४