मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् ५

संहिता

तं ने॒मिमृ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः ।
नेदी॑यो य॒ज्ञम॑ङ्गिरः ॥

पदपाठः

तम् । ने॒मिम् । ऋ॒भवः॑ । य॒था॒ । आ । न॒म॒स्व॒ । सहू॑तिऽभिः ।
नेदी॑यः । य॒ज्ञम् । अ॒ङ्गि॒रः॒ ॥

सायणभाष्यम्

हे अंगिरः त्वं सहूतिभिः समानाह्वानैरन्यैःदेवैः सह नेदीयोन्तिकतमं तं यज्ञं आनमस्व आनमय ऋभवोनेमिं रथमिव ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४