मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् ६

संहिता

तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या ।
वृष्णे॑ चोदस्व सुष्टु॒तिम् ॥

पदपाठः

तस्मै॑ । नू॒नम् । अ॒भिऽद्य॑वे । वा॒चा । वि॒ऽरू॒प॒ । नित्य॑या ।
वृष्णे॑ । चो॒द॒स्व॒ । सु॒ऽस्तु॒तिम् ॥

सायणभाष्यम्

हे विरूप नानारूपैतन्नामक महर्षे त्वं तस्मै प्रसिद्धायाभिद्यवेभिगततृप्तये वृष्णे वर्षकायाग्नये नित्यया उत्पत्तिरहितया वाचा मंत्ररूपया सुष्टुतिं नूनमिदानीं चोदस्व स्तुहि इत्येवमृषिः स्वात्मानं ब्रवीति । यजमानोवा होतारं विरूपं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५