मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् ७

संहिता

कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः ।
प॒णिं गोषु॑ स्तरामहे ॥

पदपाठः

कम् । ऊं॒ इति॑ । स्वि॒त् । अ॒स्य॒ । सेन॑या । अ॒ग्नेः । अपा॑कऽचक्षसः ।
प॒णिम् । गोषु॑ । स्त॒रा॒म॒हे॒ ॥

सायणभाष्यम्

अस्याग्नेरपाकचक्षसः अनल्पचक्षसोग्नेः सेनया ज्वालारूपया गोषु निवित्तेषु कमुष्वित् कंखलु पणिं स्तरामहे । स्तरणं हिंसनमिदानीं बलिन- मभिभवामेत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५