मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् ८

संहिता

मा नो॑ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः ।
कृ॒शं न हा॑सु॒रघ्न्या॑ः ॥

पदपाठः

मा । नः॒ । दे॒वाना॑म् । विशः॑ । प्र॒स्ना॒तीःऽइ॑व । उ॒स्राः ।
कृ॒शम् । न । हा॒सुः॒ । अघ्न्याः॑ ॥

सायणभाष्यम्

देवानां सर्वेषां विशः प्रजाभूतान् परिचारकान् नोस्मान्माहासीदग्निः मापरित्यजतु । प्रस्नातीरुस्राइव पयः क्षरन्तीर्गावइव ता यथा नमुंचंति उभयमपि नपरित्यजत्वित्यर्थः । किमिव कृशं अल्पं स्ववत्सं अघ्न्यागावो यथा नहासुर्नपरित्यजंति तद्वत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५