मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् ९

संहिता

मा नः॑ समस्य दू॒ढ्य१॒॑ः परि॑द्वेषसो अंह॒तिः ।
ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥

पदपाठः

मा । नः॒ । स॒म॒स्य॒ । दुः॒ऽध्यः॑ । परि॑ऽद्वेषसः । अं॒ह॒तिः ।
ऊ॒र्मिः । न । नाव॑म् । आ । व॒धी॒त् ॥

सायणभाष्यम्

समस्य सर्वस्य परिद्वेषसः परितोद्विषतोदुर्ध्यः पापबुद्धेरंहतिर्हननं नः अस्मान्माआवधीत् माहिंस्यात् । नावमूर्मिर्न समुद्रतरंगइव स यथा तां पीडयति तद्वन्मावधीदित्यर्थः । अत्र मानः सर्वस्य दुर्धियः इत्यादिनिरुक्तं द्रष्टव्यं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५