मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् ११

संहिता

कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिम् ।
उरु॑कृदु॒रु ण॑स्कृधि ॥

पदपाठः

कु॒वित् । सु । नः॒ । गोऽइ॑ष्टये । अग्ने॑ । स॒म्ऽवेषि॑षः । र॒यिम् ।
उरु॑ऽकृत् । उ॒रु । नः॒ । कृ॒धि॒ ॥

सायणभाष्यम्

हे अग्ने त्वं नोस्माकं गविष्टये गवामेशणाय कुविद्वहु रयिं धनं संवेषिषः संप्रापय उरुकृत् त्वं नोस्मान् उरु कृधि कुरु ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६