मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् १२

संहिता

मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था ।
सं॒वर्गं॒ सं र॒यिं ज॑य ॥

पदपाठः

मा । नः॒ । अ॒स्मिन् । म॒हा॒ऽध॒ने । परा॑ । व॒र्क् । भा॒र॒ऽभृत् । य॒था॒ ।
स॒म्ऽवर्ग॑म् । सम् । र॒यिम् । ज॒य॒ ॥

सायणभाष्यम्

नोस्मानस्मिन्महाधने संग्रामे मापरावर्क् मापरित्याक्षीः भारभृद्यथा भारवाही यथा भारमन्ते परित्यजति तद्वत् संवर्गं शत्रुभ्यः सहाच्छिद्यमानं रयिं धनं संजयास्मदर्थम् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६