मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् १५

संहिता

पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ अ॒भ्या त॑र ।
यत्रा॒हमस्मि॒ ताँ अ॑व ॥

पदपाठः

पर॑स्याः । अधि॑ । स॒म्ऽवतः॑ । अव॑रान् । अ॒भि । आ । त॒र॒ ।
यत्र॑ । अ॒हम् । अस्मि॑ । तान् । अ॒व॒ ॥

सायणभाष्यम्

हे अग्ने परस्याअन्यायाः संवतः सेनायाः अवरानन्यानस्मदीयान् अभि अभिमुखं आसर्वतस्तर तारय वैरिसेना अस्मद्भटैः पराभावयेत्यर्थः । यत्र येषु अस्मदीयपरिजनमध्ये अहमस्मि स्वामी तानव रक्ष ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६