मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७६, ऋक् १

संहिता

इ॒मं नु मा॒यिनं॑ हुव॒ इन्द्र॒मीशा॑न॒मोज॑सा ।
म॒रुत्व॑न्तं॒ न वृ॒ञ्जसे॑ ॥

पदपाठः

इ॒मम् । नु । मा॒यिन॑म् । हु॒वे॒ । इन्द्र॑म् । ईशा॑नम् । ओज॑सा ।
म॒रुत्व॑न्तम् । न । वृ॒ञ्जसे॑ ॥

सायणभाष्यम्

इमं मायिनं प्रज्ञावन्तं ओजसा स्वबलेन ईशानं सर्वस्य स्वामिनं मरुत्वन्तंन । नेति संप्रत्यर्थे । मरुद्भिस्तद्वन्तमिदानीमिन्द्रं वृंजसे शत्रूणां छेदनाय हुवे आह्वयामि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७