मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७६, ऋक् ३

संहिता

वा॒वृ॒धा॒नो म॒रुत्स॒खेन्द्रो॒ वि वृ॒त्रमै॑रयत् ।
सृ॒जन्त्स॑मु॒द्रिया॑ अ॒पः ॥

पदपाठः

व॒वृ॒धा॒नः । म॒रुत्ऽस॑खा । इन्द्रः॑ । वि । वृ॒त्रम् । ऐ॒र॒य॒त् ।
सृ॒जन् । स॒मु॒द्रियाः॑ । अ॒पः ॥

सायणभाष्यम्

अयमिन्द्रो वा वृधानो वर्धमानो मरुत्सखा मरुत्सहायो वृत्रं मेघं व्यैरयत् विदारितवान् । किंकुर्वन् समुद्रियाः समुद्रमन्तरिक्षं तत्संबन्धिन्यअपः सृजन् असृजन् ॥ ३ ॥ षष्ठेहनि मरुत्वतीये अयं हयेनेति मरुत्वन्निविद्धानीयः । सूत्रितंच-अयंहयेनवाइदम्-पनोहरिभिःसुतमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७