मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७६, ऋक् ५

संहिता

म॒रुत्व॑न्तमृजी॒षिण॒मोज॑स्वन्तं विर॒प्शिन॑म् ।
इन्द्रं॑ गी॒र्भिर्ह॑वामहे ॥

पदपाठः

म॒रुत्व॑न्तम् । ऋ॒जी॒षिण॑म् । ओज॑स्वन्तम् । वि॒ऽर॒प्शिन॑म् ।
इन्द्र॑म् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

मरुत्वंतं मरुद्भिस्तद्वन्तं ऋजीषिणम् । अभिषुतशेषऋजीषः सच तृतीयसवने पुनः सूयते । तद्वन्तं ओजस्वन्तं ओजोनामाष्टमीदशा शरीरवृध्युपे- तमित्यर्थः । विरप्शिनं महन्नामैतत् महान्तं एवं महानुभावमिन्द्रं गीर्भिः स्तुतिभिर्हवामहे आह्वयामः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७