मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७६, ऋक् ७

संहिता

म॒रुत्वाँ॑ इन्द्र मीढ्व॒ः पिबा॒ सोमं॑ शतक्रतो ।
अ॒स्मिन्य॒ज्ञे पु॑रुष्टुत ॥

पदपाठः

म॒रुत्वा॑न् । इ॒न्द्र॒ । मी॒ढ्वः॒ । पिब॑ । सोम॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
अ॒स्मिन् । य॒ज्ञे । पु॒रु॒ऽस्तु॒त॒ ॥

सायणभाष्यम्

हे मीढ्वः फलस्य वृष्टेर्वा सेक्तः शतक्रतो बहुकर्मेन्द्र त्वं मरुत्वान् सोमं पिबास्मिन्यज्ञे । हे पुरुष्टुत बहुभिराहूत ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८