मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७६, ऋक् ८

संहिता

तुभ्येदि॑न्द्र म॒रुत्व॑ते सु॒ताः सोमा॑सो अद्रिवः ।
हृ॒दा हू॑यन्त उ॒क्थिनः॑ ॥

पदपाठः

तुभ्य॑ । इत् । इ॒न्द्र॒ । म॒रुत्व॑ते । सु॒ताः । सोमा॑सः । अ॒द्रि॒ऽवः॒ ।
हृ॒दा । हू॒य॒न्ते॒ । उ॒क्थिनः॑ ॥

सायणभाष्यम्

हे अद्रिवोवज्रवन्निन्द्र मरुत्वते तुभ्येत् तुभ्यमेव सोमासः सुताअभिषुताः तेचोक्थिनः शस्त्रवन्तो हृदा मनसा भक्त्या हूयन्ते त्वदथेम् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८