मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७७, ऋक् १

संहिता

ज॒ज्ञा॒नो नु श॒तक्र॑तु॒र्वि पृ॑च्छ॒दिति॑ मा॒तर॑म् ।
क उ॒ग्राः के ह॑ शृण्विरे ॥

पदपाठः

ज॒ज्ञा॒नः । नु । श॒तऽक्र॑तुः । वि । पृ॒च्छ॒त् । इति॑ । मा॒तर॑म् ।
के । उ॒ग्राः । के । ह॒ । शृ॒ण्वि॒रे॒ ॥

सायणभाष्यम्

अयमिन्द्रो जज्ञानोनु जायमानएव शतक्रतुर्बहुकर्मा इतीत्थं मातरं स्वजननीं विपृच्छत् विपृच्छति । किमिति के उग्रा उद्गूर्णबला लोके केह शृण्विरे श्रूयन्ते गुणैः केविश्रुताइत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९