मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७७, ऋक् ४

संहिता

एक॑या प्रति॒धापि॑बत्सा॒कं सरां॑सि त्रिं॒शत॑म् ।
इन्द्र॒ः सोम॑स्य काणु॒का ॥

पदपाठः

एक॑या । प्र॒ति॒ऽधा । अ॒पि॒ब॒त् । सा॒कम् । सरां॑सि । त्रिं॒शत॑म् ।
इन्द्रः॑ । सोम॑स्य । का॒णु॒का ॥

सायणभाष्यम्

अयमिन्द्रः एकया एकेन प्रतिधा प्रतिधानेन साकं सह एकधैव त्रिंशतं सरांसि उक्थपात्राणीत्यर्थः । कीदृशानि सरांसि सोमस्यपूर्णानि सोमरसेन पूर्णानि । काणुका कान्तानि क्रान्तानिवा सोमेन कृतानिवा सोमपूर्णानि अपिबत् पीतवान् माध्यंदिनसवने । याज्ञिकप्रसिध्यैवम् । नैरुक्तप्रसिध्यातु कालाभिमानीन्द्रः त्रिंशदपरपक्षस्याहोरात्रास्त्रिंशत्पूर्वपक्षस्य च सन्ति तानेकरूपमनुभवतीति एतत्सर्वमेकेन प्रतिधानेनापिबदित्यादि निरुक्ते तद्माख्यानेच स्पष्टमुक्तं तदत्र द्रष्टव्यम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९