मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७७, ऋक् ६

संहिता

निरा॑विध्यद्गि॒रिभ्य॒ आ धा॒रय॑त्प॒क्वमो॑द॒नम् ।
इन्द्रो॑ बु॒न्दं स्वा॑ततम् ॥

पदपाठः

निः । अ॒वि॒ध्य॒त् । गि॒रिऽभ्यः॑ । आ । धा॒रय॑त् । प॒क्वम् । ओ॒द॒नम् ।
इन्द्रः॑ । बु॒न्दम् । सुऽआ॑ततम् ॥

सायणभाष्यम्

अयमिन्द्रो गिरिभ्यो मेघेभ्यः सकाशादुदकं निर्गमयितुं निराविध्यत् संप्राहरत् तानेव मेघान् अधारयत् । किंकुर्वन् पक्वं परिपक्वमोदनं कुर्वन् मनुष्याणामर्थाय । केन साधनेनेति तदुच्यते-बुंदं इषुं स्वाततं सुष्ठु सर्वतोविस्तृतं आदायेतिशेषः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०