मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७७, ऋक् ७

संहिता

श॒तब्र॑ध्न॒ इषु॒स्तव॑ स॒हस्र॑पर्ण॒ एक॒ इत् ।
यमि॑न्द्र चकृ॒षे युज॑म् ॥

पदपाठः

श॒तऽब्र॑ध्नः । इषुः॑ । तव॑ । स॒हस्र॑ऽपर्णः । एकः॑ । इत् ।
यम् । इ॒न्द्र॒ । च॒कृ॒षे । युज॑म् ॥

सायणभाष्यम्

हे इन्द्र तवेषुः शतब्रध्नः शताग्रः सहस्रपर्णः सहस्रसंख्याकैः पत्रैः संवृतः शीघ्रगमनाय अपरिमितगमनोवा सचैकइत् एकएव यंचेषुं युजं सहायं चकृषे करोषि युद्धाय ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०