मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७७, ऋक् ८

संहिता

तेन॑ स्तो॒तृभ्य॒ आ भ॑र॒ नृभ्यो॒ नारि॑भ्यो॒ अत्त॑वे ।
स॒द्यो जा॒त ऋ॑भुष्ठिर ॥

पदपाठः

तेन॑ । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ । नृऽभ्यः॑ । नारि॑ऽभ्यः । अत्त॑वे ।
स॒द्यः । जा॒तः । ऋ॒भु॒ऽस्थि॒र॒ ॥

सायणभाष्यम्

तेनेषुणा स्तोतृभ्यः अस्मभ्यं नृभ्यो मनुष्येभ्यः पुत्रेभ्य इत्यर्थः । तथा नारिभ्यः स्त्रीभ्यश्चात्तवे अदनाय पर्याप्तं धनमाभराहर । सद्यस्तदानीमेव जातोस्माभिः दत्तेन सोमेन प्रवृद्धः सन् हेऋभुस्थिर प्रभूतःस्थिरश्च संग्रामे सतथोक्तः हे तादृशेन्द्र त्वमाभरेतिसमन्वयः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०