मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७७, ऋक् ११

संहिता

तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनु॑ः सा॒धुर्बु॒न्दो हि॑र॒ण्ययः॑ ।
उ॒भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥

पदपाठः

तु॒वि॒ऽक्षम् । ते॒ । सुऽकृ॑तम् । सु॒ऽमय॑म् । धनुः॑ । सा॒धुः । बु॒न्दः । हि॒र॒ण्ययः॑ ।
उ॒भा । ते॒ । बा॒हू इति॑ । रण्या॑ । सुऽसं॑स्कृता । ऋ॒दु॒ऽपे । चि॒त् । ऋ॒दु॒ऽवृधा॑ ॥

सायणभाष्यम्

एषा निरुक्ते एकमपि पदं विहाय यास्केन व्याख्याता तदेवलिख्यते-तुविक्षं बहुविक्षेपं महाविक्षेपं वा ते सुकृतं सूमयं सुसुखं धनुः साधयिता ते बुन्दोहिरण्मयः उभौ ते बाहू रण्यौ रमणीयौ संग्राम्यौ वर्दूपे अर्दनपातिनौ गमनपातिनौमर्मण्यर्दनवेधिनौ गमनवेधिनौ वेति ॥ ११ ॥

पुरोळशंनइति दशर्चमष्टमं सूक्तं काण्वस्य कुरुसुतेरार्षं आद्यानवगायत्र्योदशमी बृहती इन्द्रोदेवता । तथाचानुक्रान्तं-पुरोळाशं दशबृहत्यन्तमिति । सूक्तविनियोगोलैंङ्गिकः । महाव्रते निष्केवल्ये गायत्रतृचाशीतौ आद्यास्तिस्रऋचः । तथाच सूत्रितं-पुरोळाशंनोअन्धसइति तिस्रइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०