पु॒रो॒ळाशं॑ नो॒ अन्ध॑स॒ इन्द्र॑ स॒हस्र॒मा भ॑र ।
श॒ता च॑ शूर॒ गोना॑म् ॥
पु॒रो॒ळाश॑म् । नः॒ । अन्ध॑सः । इन्द्र॑ । स॒हस्र॑म् । आ । भ॒र॒ ।
श॒ता । च॒ । शू॒र॒ । गोना॑म् ॥
हे शूर इन्द्र पुरोळाशं पुरोदीयमानमेतत्संज्ञकं अंधसोन्नं स्वीकृत्य गोनां गवां सहस्रं शता शतानि च नोस्मभ्यं आभराहर । अथवा नोस्मभ्यं पुरतो दीयमानं अंधसोधोव्यञ्चनं सहस्रं सहस्रसंख्याकं गोसहस्रं चाहरेति योज्यम् ॥ १ ॥