मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७८, ऋक् २

संहिता

आ नो॑ भर॒ व्यञ्ज॑नं॒ गामश्व॑म॒भ्यञ्ज॑नम् ।
सचा॑ म॒ना हि॑र॒ण्यया॑ ॥

पदपाठः

आ । नः॒ । भ॒र॒ । वि॒ऽअञ्ज॑नम् । गाम् । अश्व॑म् । अ॒भि॒ऽअञ्ज॑नम् ।
सचा॑ । म॒ना । हि॒र॒ण्यया॑ ॥

सायणभाष्यम्

हे इन्द्र त्वंनोस्मभ्यं व्यंजनं गामश्वं अभ्यञ्चनं तैलं चाभर । मना मननीयानि हिरण्यया हिरण्मयानि उपकरणानि सचा सहाभरेति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१