मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७८, ऋक् ३

संहिता

उ॒त नः॑ कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र ।
त्वं हि शृ॑ण्वि॒षे व॑सो ॥

पदपाठः

उ॒त । नः॒ । क॒र्ण॒ऽशोभ॑ना । पु॒रूणि॑ । धृ॒ष्णो॒ इति॑ । आ । भ॒र॒ ।
त्वम् । हि । शृ॒ण्वि॒षे । व॒सो॒ इति॑ ॥

सायणभाष्यम्

उतापिच नोस्मभ्यं कर्णशोभना कर्णाभरणानि पुरूणि बहून्याभर । हे धृष्णो धर्षकेन्द्र वसो वासयितरिन्द्र त्वं हि खलु शृण्विषे श्रूयसे । किमिति उदारोयमिन्द्रइति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१