मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७८, ऋक् ४

संहिता

नकीं॑ वृधी॒क इ॑न्द्र ते॒ न सु॒षा न सु॒दा उ॒त ।
नान्यस्त्वच्छू॑र वा॒घतः॑ ॥

पदपाठः

नकी॑म् । वृ॒धी॒कः । इ॒न्द्र॒ । ते॒ । न । सु॒ऽसाः । न । सु॒ऽदाः । उ॒त ।
न । अ॒न्यः । त्वत् । शू॒र॒ । वा॒घतः॑ ॥

सायणभाष्यम्

हे इन्द्र ते त्वत्तोन्यः कश्चिद्वृधीको वर्धयिता नकीं नैव । तथा सुषाः सुष्ठु संभक्ताः संग्रामादौ त्वत्तोन्योन । उतापिच सुदाः सुदाता न । तथा हेशूर त्वत् त्वत्तोन्यो वाघतः ऋत्विङ्नामैतत् ऋत्विजो यजमानस्य नेता नान्योस्ति त्वामृते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१