मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७८, ऋक् ५

संहिता

नकी॒मिन्द्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे ।
विश्वं॑ शृणोति॒ पश्य॑ति ॥

पदपाठः

नकी॑म् । इन्द्रः॑ । निऽक॑र्तवे । न । श॒क्रः । परि॑ऽशक्तवे ।
विश्व॑म् । शृ॒णो॒ति॒ । पश्य॑ति ॥

सायणभाष्यम्

अयमिन्द्रो निकर्तवे निकर्तुं नकीं नैव शक्यः । तथा शक्रः शक्तोयं परिशक्तवे परिभावाय नशक्यत इति । सतु विश्वं शृणोति पश्यतिच ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१