मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७८, ऋक् ६

संहिता

स म॒न्युं मर्त्या॑ना॒मद॑ब्धो॒ नि चि॑कीषते ।
पु॒रा नि॒दश्चि॑कीषते ॥

पदपाठः

सः । म॒न्युम् । मर्त्या॑नाम् । अद॑ब्धः । नि । चि॒की॒ष॒ते॒ ।
पु॒रा । नि॒दः । चि॒की॒ष॒ते॒ ॥

सायणभाष्यम्

सइन्द्रो मन्युं क्रोधं केषां मर्त्यानां अदब्धः केनाप्यहिंसितः सन् निचिकीषते निकरोति । किं मन्युं प्राप्यैव नेत्याह निदोनिन्दायाः पुरा पूर्वमेव चिकीषते यदा तं निन्दितुमिच्छति कश्चित्ततः पूर्वमेव तं निकरोतीत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२