मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७८, ऋक् ७

संहिता

क्रत्व॒ इत्पू॒र्णमु॒दरं॑ तु॒रस्या॑स्ति विध॒तः ।
वृ॒त्र॒घ्नः सो॑म॒पाव्न॑ः ॥

पदपाठः

क्रत्वः॑ । इत् । पू॒र्णम् । उ॒दर॑म् । तु॒रस्य॑ । अ॒स्ति॒ । वि॒ध॒तः ।
वृ॒त्र॒ऽघ्नः । सो॒म॒ऽपाव्नः॑ ॥

सायणभाष्यम्

तुरस्य त्वरमाणस्य वृत्रघ्नो वृत्रं हतवतः सोमपान्नः सोमपातुरुदरं क्रत्वइत् कर्मणैव पूर्णमस्ति भवति । कस्य कर्मणेति उच्यते-विधतः परिचरतो यजमानस्य । यतः परिचरणाभावे तस्य कुक्षिपूर्त्यभावः अतस्तत्पूर्तये परिचरतेतिशेषः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२