मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७८, ऋक् ८

संहिता

त्वे वसू॑नि॒ संग॑ता॒ विश्वा॑ च सोम॒ सौभ॑गा ।
सु॒दात्वप॑रिह्वृता ॥

पदपाठः

त्वे इति॑ । वसू॑नि । सम्ऽग॑ता । विश्वा॑ । च॒ । सो॒म॒ । सौभ॑गा ।
सु॒ऽदातु॑ । अप॑रिऽह्वृता ॥

सायणभाष्यम्

हे इन्द्र त्वे त्वयि वसूनि धनान्यस्मदिष्टानि संगता संगतानि । तथा हे सोम सोमवन्निन्द्र त्वयि विश्वा सर्वाणि सौभगा सौभाग्यानि संगतानि । तथा सुदातु सुदानान्यपरिह्वृता अकुटिलानि अतस्तानि कुर्विति भावः । यद्वाचेन्द्रः सोमं पीत्वा सोम इत्यभिहितः सोमश्रुतेः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२