मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७८, ऋक् ९

संहिता

त्वामिद्य॑व॒युर्मम॒ कामो॑ ग॒व्युर्हि॑रण्य॒युः ।
त्वाम॑श्व॒युरेष॑ते ॥

पदपाठः

त्वाम् । इत् । य॒व॒ऽयुः । मम॑ । कामः॑ । ग॒व्युः । हि॒र॒ण्य॒युः ।
त्वाम् । अ॒श्व॒ऽयुः । आ । ई॒ष॒ते॒ ॥

सायणभाष्यम्

त्वामित् त्वामेवेषते किं मम कामः सकीदृशः यवयुः यवेच्छुः सन्नेषते । तथा गव्युः सन्नेषते । तथा हिरण्ययुश्चसन्नेषते । तथाश्वयुश्च सन्नेषते । तं काममाप्तेच्छं कुर्विति भावः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२