मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७८, ऋक् १०

संहिता

तवेदि॑न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे ।
दि॒नस्य॑ वा मघव॒न्त्सम्भृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥

पदपाठः

तव॑ । इत् । इ॒न्द्र॒ । अ॒हम् । आ॒ऽशसा॑ । हस्ते॑ । दात्र॑म् । च॒न । आ । द॒दे॒ ।
दि॒नस्य॑ । वा॒ । म॒घ॒ऽव॒न् । सम्ऽभृ॑तस्य । वा॒ । पू॒र्धि । यव॑स्य । का॒शिना॑ ॥

सायणभाष्यम्

हे मघवन् इन्द्र तवेत् तवैवाशसा आशंसनेन त्वमस्मदीयं क्षेत्रं यवसमृद्धं करोषीत्याशंसनेन हस्ते दात्रं चन लवनसाधनं दात्रमथाददे स्वीकरोमि । किमनेन प्रयासेन दिनस्य वा पूर्वमेव छिन्नस्य वा यवस्य संभृतस्य वा पूर्वमेव छित्वा निष्कृतस्य राशीकृतस्य वा यवस्य काशिना मुष्टिना पूर्धि पूरयाशंसनं देहिच ॥ १० ॥

अयं कृत्नुरिति नवर्चं नवमं सूक्तम् । अत्रेयमनुक्रमणिका-अयंकृत्नुर्नवकृत्नुर्भार्गवः सौम्यमन्त्यानुष्टुबिति । भार्गवः कृत्नुऋषिः नवम्यनुष्टुप् अष्टौ गायत्र्यः सोमोदेवता विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२