मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७९, ऋक् ३

संहिता

त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः ।
उ॒रु य॒न्तासि॒ वरू॑थम् ॥

पदपाठः

त्वम् । सो॒म॒ । त॒नू॒कृत्ऽभ्यः॑ । द्वेषः॑ऽभ्यः । अ॒न्यऽकृ॑तेभ्यः ।
उ॒रु । य॒न्ता । अ॒सि॒ । वरू॑थम् ॥

सायणभाष्यम्

हे सोम त्वं तनुकृड्यः कृशीकुर्वड्यः अथवांगानां विच्छेदकेभ्योन्यकृतेभ्यो द्वेषोभ्यो शत्रुकृतेभ्योप्रियेभ्यः कृत्येभ्यइत्यर्थः वरूथं वरकं रक्षणं उरुयंतासि बहुकृद्भवसि स्तोतॄणाम् । अन्यकृतानि हि रक्षांसीति ब्राह्मणम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३