मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७९, ऋक् ४

संहिता

त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् ।
यावी॑र॒घस्य॑ चि॒द्द्वेषः॑ ॥

पदपाठः

त्वम् । चि॒त्ती । तव॑ । दक्षैः॑ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् ।
यावीः॑ । अ॒घस्य॑ । चि॒त् । द्वेषः॑ ॥

सायणभाष्यम्

हे ऋजीषिन् तृतीयसवनगतेन ऋजीषेण तद्वन् सोम त्वं तव चित्ती चित्या प्रज्ञया दक्षैः बलैश्च दिवआ दिवश्च आ इति चार्थे पृथिव्या आ पृथिव्याश्च सकाशात् अवस्यचिदस्माकमाहन्तुरपि द्वेषः शत्रोः कृत्यां यावीः पृथक्कुरु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३