मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७९, ऋक् ६

संहिता

वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी॑मृता॒युमी॑रयत् ।
प्रेमायु॑स्तारी॒दती॑र्णम् ॥

पदपाठः

वि॒दत् । यत् । पू॒र्व्यम् । न॒ष्टम् । उत् । ई॒म् । ऋ॒त॒ऽयुम् । ई॒र॒य॒त् ।
प्र । ई॒म् । आयुः॑ । ता॒री॒त् । अती॑र्णम् ॥

सायणभाष्यम्

यद्यदा पूर्व्यं पुराणं नष्टं स्वकीयं धनं विदल्लभते नष्टधनः ईं एनं ऋतायुं नष्टधनलाभर्थं यज्ञकामं उदीरयत् प्रेरयति धनं साधयतीत्यर्थः । तदा ईं अतीर्णं एनं यज्ञारंभिणं आयुः जीवनं प्रतारीत् प्रकर्षेण वर्धयेत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४